भवेदवश्यं तद्भावि यथा पुंभिः पुरा कृतम् ७.
शिष्योऽहं भवता पाठ्यं कर्णधारं महामुनिम् ७.
नमस्ये चेतनं ब्रह्मा प्रत्यक्षं गालवाख्यया ७.
उपदेशमहामंत्रैर्मां जांगुलिक जीवय ७.
त्वद्वाक्यतीक्ष्णधारेण कुठारेण क्षयं व्रजेत् ७.
छिद्यतां सूत्रधारेण विद्यापरशुनाधुना ७.
समिद्दर्भान्मूलफलं दारूणि जलमेव च ७.
इत्थं पुरा बकाभिख्यं बकवृत्तिमुपाश्रितम् ७.
ततोऽतीव विनीतोऽहं भूत्वा तं ब्राह्मणीयुतम् ७.
स च जानन्मुनिः पत्नीं पात्रभूतामविश्वसन् ७.
अथान्यस्मिन्दिने साभूद्ब्राह्मण्यथ रजस्वला ७.
इदमन्तरमित्यंतर्विचिंत्याहं प्रहर्षितः ७.
विललाप तदा बाला ह्रियमाणा मयोच्चकैः ७.
बकवृत्तिरयं दुष्टो धर्मकंचुकमाश्रितः ७.
तव शिष्यः पुरा भूत्वा कोप्वेषोद्य मलिम्लुचः ७.
तद्वाक्यसमकालं स प्रबुद्धो गालवो मुनिः ७.
ततश्चित्राकृतिरहं स्तम्भितो मुनिनाऽभवम् ७.
ततः प्रकुपितः प्राह मामभ्येत्याथ गालवः ७.
बकवृत्तिमुपाश्रित्य वंचितोऽहं यतस्त्वया ७.
इति शप्तोऽहमभवं मुनिनाऽधर्ममाश्रितः ७.
न हीदृशमनायुष्यं लोके किंचन विद्यते ७.
ततः सती सा मत्स्पर्शदूषितांगी तपस्विनी ७.
एवं ताभ्यामहं शप्तो ह्यश्वत्थपर्णवद्भयात् ७.
गणोऽहमीश्वरस्यैव दुर्विनीततरो युवाम् ७.
वाचि क्षुरो नावनीतं हृदयं हि द्विजन्मनाम् ७.
त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम ७.
गणाधिपत्यमपि मे जातं परिभवास्पदम् ७.
विदुरेष्यद्धियाऽपायं परतोऽन्ये विवेकिनः ७.
दुर्वीनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव वा ७.
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ७.