बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः ७.
अथ मारकतं लिंगं देवतावसरात्पितुः ७.
घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे ७.
निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम् ७.
वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद ७.
ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः ७.
अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये ७.
घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे ७.
ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया ७.
पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः ७.
पूर्वजन्मनि तुष्टोऽहं घृतकंबलपूजया ७.
ततो मया वृतः प्रादाद्गाणपत्यं मदीप्सितम् ७.
तेनैव हि शरिरेण प्रणतं पुरतः स्थितम् ७.
घृतेन पूजां कर्तासौ भावी मम गणः स्फुटम् ७.
प्रतीपपालकंनाम संस्थितं शिवशासनम् ७.
निसर्गचपलां प्राप्य भ्रमरीमिव तां श्रियम् ७.
विचचार तदा मत्तः किलाहं वारणो यथा ७.
विद्यामभिजनं लक्ष्मीं प्राप्य नीचनरो यथा ७.
अथ काले व्यतिक्रांते कियन्मात्रे यदृच्छया ७.
तपस्यति मुनिस्तत्र गालवो भार्यया सह ७.
ब्राह्मणस्य हि देहोयं नैवैहिकफलप्रियः ७.
तस्य भार्याऽतिरूपेण विजिग्ये विश्ववर्णिनी ७.
हंसगद्गदसंभाषा मत्तमातंगगामिनी ७.
निम्ननाभिर्विधात्रैषा निर्मिता संदिदृक्षुणा ७.
ततोऽविनीतस्तां वीक्ष्य भद्र गालववल्लभाम् विवेकिनोऽपि मुनयस्तावदेव विवेकिनः॥ ७.
यावन्न हरिणाक्षीणामपांगविवरेक्षिताः ७.
इति चेति हरिष्यामि तपसा रक्षितां मुनेः ७.
मम भावी भवेदेषा भार्या मृत्युरुतापि मे ७.
प्राप्यांतरं हरिष्यामि नास्य योग्येयमंगना ७.
नमस्कृत्य वचोऽवोचमिति भाव्यर्थनोदितः ७.