मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम् ७.
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम् इंद्रद्युम्न उवाच ७.
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा॥ ७.
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः ७.
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने ७.
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे ७.
तत्करोमि प्रतीकारं तव दुःखोपशांतये ७.
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम् ७.
परोपकारैकफलं जीवितं हि महात्मनाम् ७.
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ ७.
बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम् ७.
कृतसंविदभूत्पूर्वं कुशलस्वागतादिना ७.
मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम् ७.
एतस्य मम मित्रस्य तेन ज्ञातेन कारणम् ७.
एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम्॥ ७.
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम् ७.
इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले ७.
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान् यदायुरीदृशं दीर्घं संजातमिति विस्मितः॥ ७.
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः ७.
पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि ७.
बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः ७.
अथ मारकतं लिंगं देवतावसरात्पितुः ७.
घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे ७.
निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम् ७.
वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद ७.
ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः ७.
अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये ७.
घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे ७.
ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया ७.
पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः ७.