तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले ७.
यदि वांछा महीपाल मम धामनि संस्थितौ॥ ७.
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति ७.
बलवानेष भूपाल कालः कलयति स्वयम्॥ ७.
ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम् ७.
यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम् ७.
पश्यतिस्म तथात्मानं महीतलमुपागतम् ७.
नगरं स तदा देशमप्राक्षीदिति विस्मितः जना ऊचुः ७.
यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम् इन्द्रद्युम्न उवाच ७.
पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम् जना ऊचुः ७.
मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम् ७.
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम् इंद्रद्युम्न उवाच ७.
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा॥ ७.
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः ७.
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने ७.
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे ७.
तत्करोमि प्रतीकारं तव दुःखोपशांतये ७.
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम् ७.
परोपकारैकफलं जीवितं हि महात्मनाम् ७.
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ ७.
बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम् ७.
कृतसंविदभूत्पूर्वं कुशलस्वागतादिना ७.
मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम् ७.
एतस्य मम मित्रस्य तेन ज्ञातेन कारणम् ७.
एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम्॥ ७.
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम् ७.
इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले ७.
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान् यदायुरीदृशं दीर्घं संजातमिति विस्मितः॥ ७.
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः ७.
पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि ७.