तदीयपूर्तधर्मस्य चिह्नेन न यदंकितम् ७.
भूपालोऽसौ ददौ दानमासहस्राद्धनार्थिनाम् ७.
ताड्यते तत्पुरे प्रातः कार्यमेकादशीव्रतम् ७.
स्वरणैरास्तृता दर्भैर्द्व्यंगुलोत्सेधिता मही ७.
शक्या गणयितुं प्राज्ञैस्तदीयं सुकृतं न तु ७.
धाम प्रजापतेः प्राप्तो विमानेन कुरूद्वह ७.
अथ कल्पशतस्यांते व्यतीते तं महीपतिम् ७.
इंद्रद्युम्न द्रुतं गच्छ धरापृष्ठं नृपोत्तम ७.
कस्माद्ब्रह्मन्नितो भूमौ मां प्रेषयसि सम्प्रति ७.
न पुण्यं केवलं राजन्गुप्तं स्वर्गस्य साधकम् ७.
तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले ७.
यदि वांछा महीपाल मम धामनि संस्थितौ॥ ७.
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति ७.
बलवानेष भूपाल कालः कलयति स्वयम्॥ ७.
ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम् ७.
यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम् ७.
पश्यतिस्म तथात्मानं महीतलमुपागतम् ७.
नगरं स तदा देशमप्राक्षीदिति विस्मितः जना ऊचुः ७.
यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम् इन्द्रद्युम्न उवाच ७.
पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम् जना ऊचुः ७.
मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम् ७.
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम् इंद्रद्युम्न उवाच ७.
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा॥ ७.
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः ७.
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने ७.
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे ७.
तत्करोमि प्रतीकारं तव दुःखोपशांतये ७.
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम् ७.
परोपकारैकफलं जीवितं हि महात्मनाम् ७.
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ ७.