यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात् ६.
यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः ६.
आत्मानं पातके विष्टं शुभाह्व चिरकारिक ६.
चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके ६.
शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे ६.
पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम् ६.
बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ६.
ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि ६.
चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत् ६.
चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः ६.
चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत् ६.
रोगे दर्पे च माने च द्रोहे पापे च कर्मणि ६.
बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ६.
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ६.
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ६.
चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते ६.
भये च साधुपूजायां चिरकारी न शस्यते ६.
ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः ६.
कलौ च भवतां विप्रा मच्छापो निपतिष्यति ६.
पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः ६.
कांचनैरर्नोप्रदानैश्च गृहदानैर्धनादिभिः ६.
ततः करं समुद्यम्य प्राहेन्द्रो देवसंगमे ६.
गणाधीशो वयं यावद्यावत्त्रिभुवनं त्विदम् ६.
ब्रह्मशापो रुद्रशापो विष्णुशापस्तथैव च ६.
ततस्तथेति तैः सर्वैर्हृष्टैस्तत्र तथोदितम् स्थाने उभे देवकृते प्रसन्नास्ततो ययुर्देवता देवसद्म॥ ६.
महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया ७.
तदहं विस्तराच्छ्रोतुमिदमिच्छामि नारद ७.
महादाख्यानमाख्यास्ये यथा जाता महीनदी ७.
पुराभूद्भूपतिर्भूमाविन्द्रद्युम्न इति श्रुतः ७.
उचितज्ञो विवेकस्य निवासो गुणसागरः ७.