नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ६.
अंगानां वर्धनादंबा वीरसूत्वे च वीरसूः ६.
देवतानां समावापमेकत्वं पितरं विदुः मर्त्यानां देवतानां च पूगो नात्येति मातरम्॥ ६.
पतिता गुरवस्त्याज्या माता च न कथंचन ६.
एवं स कौशिकीतीरे बलिं राजानमीक्षतीम् ६.
विमृश्य चिरकालं हि चिंतांतं नाभ्यपद्यत ६.
गायन्गाखामुपायातः पितुस्तस्याश्रमांतिके ६.
अतस्ताभ्यः फलं ग्राह्यं न स्याद्दोषेक्षणः सुधीः ६.
दुःखितश्चिंतयन्प्राप्तो भृशमश्रूणि वर्तयन् ६.
हत्वा नारीं च साध्वीं च को नु मां तारयिष्यति ६.
यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात् ६.
यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः ६.
आत्मानं पातके विष्टं शुभाह्व चिरकारिक ६.
चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके ६.
शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे ६.
पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम् ६.
बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ६.
ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि ६.
चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत् ६.
चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः ६.
चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत् ६.
रोगे दर्पे च माने च द्रोहे पापे च कर्मणि ६.
बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ६.
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ६.
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ६.
चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते ६.
भये च साधुपूजायां चिरकारी न शस्यते ६.
ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः ६.
कलौ च भवतां विप्रा मच्छापो निपतिष्यति ६.
पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः ६.