स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते
फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा
पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम्
तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा
तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना 1.3.2.1.
ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम्
यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः
भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत्
अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम्
जातानां वर्णसांकर्य्ये तैरश्ची योनिमीयुषाम्
इतीरयित्वा स मृकंडुनंदनः समं मुनींद्रैरपरैर्महात्मभिः
नंदिकेश्वर उवाच स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि
प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः
त्वया शुश्रुषितं तेषां हिताय महते ह्यलम्
स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः
कथं नु विरतो देही गर्भमोकसमागमात्
प्रदेशाः कथिताः पूर्वं प्रसंगवशतो मया
केचित्तीरेषु गंगायाः केचित्सारस्वते तटे
अपरे नर्मदातीरे परे गोदावरीतटे
समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम्
कृष्णवेणीतटे केचित्तुंगभद्रांतिके परे 1.3.2.2.
कावेरीतीर इतरे केचिद्वेगवतीतटे
केचिदैरावतीतीरे त्वितरे यातुकांक्षिके
कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणांतिकेन्ये
विपाशाभ्याश इतरे शतद्रुतितटे परे
केचिद्बिंदुसरोभ्यर्णे परे पंपासरस्तटे
अपरे मालिनीतीरे परे गंधवतीतटे
इंद्रद्युम्नसरस्यन्य एके तु मणिकर्णिके पातालगंगासविधे शरावत्यंतिके परे
लोहित्याकूलयोः केचित्कतिचित्कालमातटे
सुरलोपांतिके केचित्पयोष्णीतीरयोः परे