दाता प्रतिग्रहीता च वचनं हि परस्परम् ६.
इति चिंतयतो मह्यं शून्यताभूद्धि नारद ६.
हृतस्वश्चान्यचित्तश्च शून्याह्येते भवंति च ६.
कृतः कोपस्ततस्तुभ्यमेवं हानिरियं मुने ६.
धिङ्मामस्तु च दुर्बुद्धिमविमृश्यार्थकारिणम् ६.
सहसा न क्रियां कुर्यात्पदमेतन्महापदाम् ६.
सत्यमाह महाबुद्धिश्चिरकारी पुरा हि सः ६.
चिरकारि महाप्राज्ञो गौतमस्याभवत्सुतः ६.
चिरकार्याभिसंपतेश्चिरकारी तथोच्यते ६.
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ६.
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ६.
विमृश्य चिरकारित्वाच्चिं तयामास वै चिरम् ६.
कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत् ६.
अस्वतंत्रं च पुत्रत्वं किं तु मां नात्र पीडयेत् ६.
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ६.
क्षमायोग्यावुभावेतौ नातिवर्तेत वै कथम् ६.
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ६.
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ६.
शरीरादीनि देयानि पिता त्वेकः प्रयच्चति ६.
पातकान्यपि चूर्यंते पितुर्वचनकारिणः ६.
पितरि प्रीतिमापन्ने सर्वाः प्रीणंति देवताः ६.
निष्कृतिः सर्वपापानां पिता यदभिनंदति ६.
क्लिश्यन्नपि सुतः स्नेहं पिता स्नेहं न मुंचति ६.
पिता नाल्पतरं स्थानं चिंतयिष्यामि मातरम् ६.
अस्य मे जननी हेतुः पावकस्य यथारणिः ६.
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ६.
श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते ६.
अपि वर्षशतस्यांते स द्विहायनवच्चरेत् ६.
रक्षयेच्च सुतं माता नान्यः पोष्यविधानतः ६.
तदा शुन्यं जगत्तस्य यदा मात्रा वियुज्यते ६.