तत्र वर्षसहस्राणि चत्वार्यायुःप्रकीर्तितम् ६.
इत्येतत्कथितं तुभ्यमतश्चाभूच्छृणुष्व तत् ६.
द्विजानहं समायातो महीसागरसंगमम्॥ ६.
तदोत्तार्य मया मुक्तास्तीरे पुण्यजलाशये ६.
निःशेषदोषदावाग्नौ महीसागरसंगमे ६.
जपमानाः परं जप्यं निविष्टाः संगमे वयम् ६.
तस्मिंश्चैवांतरे पार्थ देवाः शक्रपुरोगमाः ६.
देवानां योनयो ह्यष्टौ गंधर्वाप्सरसां गणाः ६.
पादप्रक्षालनं कर्तुं विप्राणामुद्यतस्त्वहम् ६.
सामध्वनिसमायुक्तां तृतीयस्वरनादिताम् ६.
विप्रैरुत्थाय संपृष्टः कस्त्वं विप्र क्व चागतः ६.
मुनिः कपिलनामाहं नारदाय निवेद्यताम् ६.
धन्योहं यदिहायातः कपिल त्वं महामुने ६.
ब्रह्मपुत्र त्वया देयं यदि मे त्वं श्रृणुष्व तत् ६.
भूमिदानं करिष्यामि कलापग्रामवासिनाम् ६.
ततो मया प्रतिज्ञातमेवमस्तु महामुने ६.
श्राद्धे वा प्राप्तकाले वा ह्यतिथिर्विमुखीभवेत् ६.
स गच्छेद्रौरवाँल्लोकान्योऽतिथिं नाभिपूजयेत् ६.
दानैर्यज्ञैस्त तस्तस्मिन्भोजितः कपिलो मुनिः ६.
पादप्रक्षालनार्थाय सिद्धदेवसमागमे ६.
ततो हासो महाञ्जज्ञे सिद्धाप्सरः सुपर्वणाम् ६.
ततो ममापि मनसि शोकवेगो महानभूत् ६.
सर्वेष्वपि च कार्येषु हेतिशब्दो विगर्हितः ६.
ततोहमब्रंवं विप्रान्यूयं मूर्खा भविष्यथ ६.
एवमुक्ते प्रहस्यैव हारीतः प्राब्रवीदिदम् ६.
कः शापो दीयते तुभ्यं शापोयमयमेव ते ६.
तथाविधस्य भवतो वामपादप्रदानतः॥ ६.
श्रृणु तत्कारणं धीमञ्छून्यता मे यतो भवेत्॥ ६.
इति चिंतयतश्चित्ते हा दुःखोऽयं प्रतिग्रहः ६.
महादानं हि गृह्णानो ब्राह्मणः स्वं शुभं हि यत् ६.