स्पर्शेषु षोडशं चैकविंशं गृह्णंति नो धनम् ६.
वरं बुभुक्षया वासो मा चौरकरगा वयम् अर्जुन उवाच ६.
किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः नारद उवाच ६.
तस्यापहारभीतास्ते मामूचुरिति ब्राह्मणाः ६.
जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः ६.
तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम्॥ ६.
वयं चौरभयाद्भीतास्ते हरंति धनं महत् ६.
खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम् ६.
प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा ६.
मूढबुद्ध्या हि को नाम महीसागरसंगमम् ६.
कलापादिषु ग्रामेषु को वसेत विचक्षणः ६.
भयं च चौरजं सर्वं किं करिष्यति तत्र न ६.
साहसं च विना भूतिर्न कथंचन प्राप्यते ६.
षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे ६.
तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम् ६.
निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः ६.
केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः ६.
अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः॥ ६.
क्व कलापं च तद्ग्रामं कथं शक्यं बिलेन च ६.
केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम् ६.
तदंते योजनशतं वासुकार्णव मुच्यते ६.
बिलेन च यथा शक्यं गंतुं तत्र श्रृणुष्व तत् ६.
दक्षिणायां दिशि ततो निष्पापं मन्यते यदा ६.
ततो गुहात्पश्चिमतो बिलमस्ति बृहत्तरम् ६.
तत्र मारकतं लिंगमस्ति सूर्यसमप्रभम् ६.
नमस्कृत्य च तल्लिंगं गृहीत्वा मृत्तिकां च ताम् ६.
कोलं वा कूपतो ग्राह्यं भूतायां निशि तज्जलम् ६.
उद्वर्तनं च देहस्य कदाचित्षष्टिमे पदे ६.
तन्मध्येन ततो याति गात्रोद्वर्त्तप्रभावतः ६.
बिलमध्ये च संपश्यन्सिद्धान्भास्करसन्निभान् ६.