तत्सर्वथाद्या धन्योऽस्मि संप्राप्तं जन्मनः फलम् ६.
ततस्ते सहसोत्थाय शातातपपुरोगमाः ६.
प्रोक्तवन्तश्च मां पार्थ वचः साधुजनो चितम् ६.
कुतो वाऽऽगमनं तुभ्यं गन्तव्यं वा क्व सांप्रतम् ६.
श्रुत्वा प्रीतिकरं वाक्यं द्विजानामिति पांडव ६.
अहं हि ब्रह्मणो वाक्याद्विप्राणां स्थानकं शुभम् ६.
परीक्षन्ब्राह्मणानत्र प्राप्तो यूयं परीक्षिताः ६.
एवमुक्तो विलोक्यैव द्विजाञ्छातातपोऽब्रवीत् ६.
किं पुनश्चापि तत्रैव मही सागरसंगमः ६.
पुनरेको महान्दोषो बिभीमो नितरां यतः ६.
स्पर्शेषु षोडशं चैकविंशं गृह्णंति नो धनम् ६.
वरं बुभुक्षया वासो मा चौरकरगा वयम् अर्जुन उवाच ६.
किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः नारद उवाच ६.
तस्यापहारभीतास्ते मामूचुरिति ब्राह्मणाः ६.
जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः ६.
तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम्॥ ६.
वयं चौरभयाद्भीतास्ते हरंति धनं महत् ६.
खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम् ६.
प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा ६.
मूढबुद्ध्या हि को नाम महीसागरसंगमम् ६.
कलापादिषु ग्रामेषु को वसेत विचक्षणः ६.
भयं च चौरजं सर्वं किं करिष्यति तत्र न ६.
साहसं च विना भूतिर्न कथंचन प्राप्यते ६.
षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे ६.
तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम् ६.
निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः ६.
केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः ६.
अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः॥ ६.
क्व कलापं च तद्ग्रामं कथं शक्यं बिलेन च ६.
केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम् ६.