ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ५.
एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः ५.
एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च ५.
वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः ५.
अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः ५.
वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः ५.
ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी ५.
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ५.
एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः ५.
इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः ५.
वैशाखस्य तृतीया या शुक्ला त्रेतादिरुच्यते ५.
त्रयोदशी नभस्ये च कृष्णा सा हि कलेः स्मृता ५.
एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतं चाक्षयमाशु विद्यात् ५.
युगाद्याः कथिता ह्येता मन्वाद्याः श्रृणु सांप्रतम् ५.
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ५.
आषाढस्यापि दशमी माघमासस्य सप्तमी ५.
कार्तिकी फाल्गुनी चैत्री ज्येष्ठे पञ्चदशी सिता ५.
यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः ५.
तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम् ५.
नित्योद्वेजकमाहुर्यं बुधास्तं श्रृणु तत्त्वतः ५.
उद्वेजयति भूतानि यथा चौरास्तथैव सः ५.
इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यमितो मयेति ५.
मासैरष्टभिरह्ना च पूर्वेण वयसायुषा ५.
अर्चिर्धूमश्च मार्गौ द्वावाहुर्वेदांतवादिनः ५.
यज्ञैरासाद्यते धूमो नैष्कर्म्येणार्चिराप्यते ५.
यो देवान्मन्यते नैव धर्मांश्च मनुसूचितान् ५.
इते ते कीर्तिताः प्रश्राः शक्त्या ब्राह्मणसत्तम ५.
इति श्रुत्वा फाल्गुनाहं रोमांचपुलकीकृतः ६.
अहो धन्यः पितास्माकं यस्य सृष्टस्य पालकाः ६.
मत्तोऽप्यनंतात्परतः परस्मात्समस्तभूताधिपतेर्न किंचित् ६.