मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः ५.
पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च ५.
प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः ५.
देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम् ५.
सा हि नानार्थभजनान्नानारूपं प्रपद्यते ५.
इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात् ५.
वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति ५.
एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते ५.
लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता ५.
हरणं परवित्तानां परदाराभिमर्शनम् ५.
स लोभः सह मोहेन विजेतव्यो जितात्मना ५.
भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम् ५.
छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः ५.
अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव ५.
सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः ५.
एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः ५.
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ५.
संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः ५.
मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम् ५.
एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ५.
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ५.
एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः ५.
एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च ५.
वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः ५.
अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः ५.
वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः ५.
ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी ५.
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ५.
एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः ५.
इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः ५.