प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ५.
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ५.
स्वेदजाश्चोद्भिजाश्चेति तत जीवाः प्रकीर्तिताः ५.
ये पुमांसस्त्वमून्देवान्समाश्रित्य क्रियापराः ५.
चतुर्णां जीवयोनीनां तदैव परिमुच्यते ५.
यस्मिञ्छास्त्रे त्वमी देवा मानिता नैव पापिभिः ५.
अमी च देवाः सर्वत्र श्रौते मार्गे प्रतिष्ठिताः ५.
तदमून्ये व्यतिक्रम्य तपो दानमथो जपम् ५.
अहो मोहस्य माहात्म्यं पश्यताविजितात्मनाम् ५.
इति तस्य वचः श्रुत्वा पिताभूदतिविस्मितः ५.
मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः ५.
पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च ५.
प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः ५.
देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम् ५.
सा हि नानार्थभजनान्नानारूपं प्रपद्यते ५.
इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात् ५.
वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति ५.
एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते ५.
लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता ५.
हरणं परवित्तानां परदाराभिमर्शनम् ५.
स लोभः सह मोहेन विजेतव्यो जितात्मना ५.
भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम् ५.
छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः ५.
अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव ५.
सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः ५.
एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः ५.
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ५.
संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः ५.
मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम् ५.
एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ५.