विसर्ज्जनीयश्च परो जिह्वामूलीय एव च ५.
इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज ५.
मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने ५.
येन विद्याः प्रपठिता वर्तंते भुवि या द्विज ५.
क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत् ५.
जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत ५.
ततः पिता खिन्नरूपी जडं तं समभाषत ५.
अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते॥ ५.
तात किं मोदकार्थाय पठ्यते लोभहेतवे ५.
एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः ५.
तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः ५.
विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया ५.
एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः ५.
अयमयं चायमिति धर्मो यो दर्शनोदितः ५.
उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः ५.
तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥ ५.
अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते ५.
अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः ५.
ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते ५.
पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम् ५.
स्वायंभुवश्च स्वारोचिरौत्तमो रैवतस्तथा ५.
सावर्णिर्ब्रह्मसावर्णी रुद्रसावर्णिरेव च ५.
रौच्यो भौत्यस्तथा चापि मनवोऽमी चतुर्दश ५.
कृष्णः श्यामस्तथा धूम्रः सुपिशंगः पिशंगकः ५.
वैवस्वतः क्षकारश्च तात कृष्णः प्रदृश्यते ५.
thumb|500px|सप्तचक्र ककाराद्याष्ठकारांता आदित्या द्वादश स्मृताः ५.
भगो विवस्वान्पूषा च सविता दशमस्तथा ५.
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ५.
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः ५.
भकाराद्याः षकारांता अष्टौ हि वसवो मताः ५.