विचिक्षिपुर्महात्मानो नभोगतमिवामिषम् ५.
काकारावैः किमतैर्वो यद्यस्ति ज्ञानशालिता ५.
वद ब्राह्मण प्रश्रान्स्वाञ्छ्रुत्वाऽऽधास्यामहे वयम् ५.
अहं पूर्विकया ते वै न्यषेधंत परस्परम् ५.
ततस्तानब्रवं प्रश्रानहं द्वादश पूर्वकान् ५.
किं ते द्विज बालप्रश्नैरमीभिः स्वल्पकैरपि ५.
ततोतिविस्मितश्चाहं मन्यमानः कृतार्थताम् ५.
ततः सुतनुनामा स बालोऽबालोऽभ्युवाच माम् तथापि वच्मि मां यस्मान्निहीनं मन्यते भवान्॥ ५.
अक्षरास्तु द्विपंचाशन्मातृकायाः प्रकीर्तिताः॥ ५.
ॐकारः प्रथमस्तत्र चतुर्दश स्वरास्तथा ५.
विसर्ज्जनीयश्च परो जिह्वामूलीय एव च ५.
इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज ५.
मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने ५.
येन विद्याः प्रपठिता वर्तंते भुवि या द्विज ५.
क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत् ५.
जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत ५.
ततः पिता खिन्नरूपी जडं तं समभाषत ५.
अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते॥ ५.
तात किं मोदकार्थाय पठ्यते लोभहेतवे ५.
एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः ५.
तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः ५.
विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया ५.
एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः ५.
अयमयं चायमिति धर्मो यो दर्शनोदितः ५.
उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः ५.
तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥ ५.
अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते ५.
अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः ५.
ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते ५.
पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम् ५.