लभंते पापनाशं च माहात्म्यस्यास्य धारणात्
सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम् ।। 1.3.1.13.
इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया
स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ
अयं सदाशिवः साक्षादरुणाचलरूपतः
एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम्
अरुणाचलनाथस्य तेजसा धूतकल्मषाः
प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि
न तथा तपसा योगैर्दानैः प्रीणाति शंकरः
स्वयंभुवः सदा वेदाः सेतिहासा दिवि स्थिताः
एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा
देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः 1.3.1.13.
न तस्य कलिदोषः स्यान्नाधिव्याधिविजृंभणा
इत्येतत्कथितं सर्वं तव शंभुपदाश्रयम्
श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे
अथारुणाचलमाहात्म्योत्तरार्धम् वसंतो नैमिषारण्ये मुनयः सूतमब्रुवन् मुनय ऊचुः स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः
सूत उवाच यूयं शृणुत यत्पूर्वं नंदीश्वरमुखाच्छ्रुतम्
नंदीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः
तथापि वद मे भूयो देवदेव दयानिधे
त्वयाप्यविदितं किंचिन्नास्त्यत्र भुवनत्रये
स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते
फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा
पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम्
तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा
तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना 1.3.2.1.
ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम्
यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः
भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत्
अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम्
जातानां वर्णसांकर्य्ये तैरश्ची योनिमीयुषाम्