ऊषरे वापितं बीजं भिन्नभांडे च गोदुहम् ५.
विधिहीने तथाऽपात्रे यो ददाति प्रतिग्रहम् ५.
भूराप्ता गौस्तथा भोगाः सुवर्णं देहमेव च ५.
घ्नंति तस्मादविद्वांस्तु बिभियाच्च प्रतिग्रहात् ५.
तस्माद्ये गूढतपसो गूढस्वाध्यायसाधकाः ५.
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ५.
न विद्यया केवलया तपसा वापि पात्रता ५.
तेषां त्रयाणां मध्ये च विद्या मुख्यो महागुणः ५.
तस्माच्चक्षुष्मतो विद्वान्देशे देशे परीक्षयेत् ५.
इति संचिंत्य मनसा तस्माद्देशात्समुत्थितः ५.
इमाञ्छ्लोकान्गायमानः प्रश्ररूपाञ्छृणुष्व तान् ५.
पंचपंचाद्भुतं गेहं को विजानाति वा द्विजः ५.
को वा चित्रकथाबंधं वेत्ति संसारगोचरः ५.
को वाष्टविधं ब्राह्मण्यं वेत्ति ब्राह्मणसत्तमः ५.
चतुर्दशमनूनां वा मूलवासरं वेत्ति कः ५.
उद्वेजयति भूतानि कृष्णाहिरिव वेत्ति कः ५.
पंथानावपि द्वौ कश्चिद्वेत्ति वक्ति च ब्राह्मणः ५.
ते मे पूज्यतमास्तेषामहामाराधकश्चिरम् ५.
ते चाहुर्दुःखदाः ख्याताः प्रश्रास्ते कुर्महे नमः ५.
हिमाद्रिशिखरासीनो भूयश्चिंतामवाप्तवान् ५.
ततो मे चिंतयानस्य पुनर्जाता मतिस्त्वियम् ५.
यस्मिन्विप्राः संवसंति मूर्तानीव तपांसि च ५.
स्थाने तस्मिन्गमिष्यामीत्युक्त्वाहं चलितस्तदा ५.
अद्राक्षं पुण्यभूमिस्थं ग्रामरत्नमहं महत् ५.
यत्र पुण्यवतां संति शतशः प्रवराश्रमाः ५.
यज्ञभाजां मुनीनां यदुपकारकरं सदा ५.
मुनीनां यत्र परमं स्थानं चाप्यविनाशकृत् ५.
यत्र कृतयुगस्तार्थं बीजं पार्थावशिष्यते ५.
स्थानकं तत्समासाद्य प्रविष्टोऽहं द्विजाश्रमान् ५.
परस्परं चिंतयाना वेदा मूर्तिधरा यथा ५.