उपानच्छत्रपात्रादिदधिमध्वासनानि च॥ ४.
दीपकाष्ठोपलादीनि चरमं बहुवार्षिकम् ४.
यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम् ४.
यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम् ४.
इति सप्तपदैर्बद्धं दानमाहात्म्य मुत्तमम् ४.
अद्य मे सफलं जन्म अद्य मे सफलं तपः ४.
पठित्वा सकलं जन्म ब्रह्मचारि यथा वृथा ४.
क्लेशेन कृत्वा कूपं वा स च क्षारोदको वृथा ४.
एवं मे यद्वृथा नाम जातं तत्सफलं त्वया ४.
सत्यमाह पुरा विष्णुः कुमारान्विष्णुसद्भनि॥ ४.
नाहं तथाद्भि यजमानहविर्वितानश्चयोतद्घृतप्लुतमदन्हुतभुङ्मुखेन ४.
तन्मयाऽशर्मणा वापि यद्विप्रेष्वप्रियं कृतम् ४.
त्वं च कोसि न सामान्यः प्रणम्याहं प्रसादये ४.
नारदोऽस्मि नृपश्रेष्ठ स्थानकार्थी समागतः ४.
यद्यपीयं देवतानां भूमिर्द्रव्यं च पार्थिव ४.
सहीश्वरस्यावतारो भर्त्ता दाताऽभयस्य सः पूर्व ममालयं देहि देयार्थे प्रार्थनापरः॥ ४.
यदि त्वं नारदो विप्र राज्यमस्त्वखिलं तव ४.
यद्यस्माकं भवान्भक्तस्तत्ते कार्यं च नो वचः॥ ४.
सर्वं यत्तद्देहि मे द्रव्यमुक्तं भुवं च मे सप्तगव्यूतिमात्राम् ४.
ऽ ततोऽहं धर्मवर्माणं प्रोच्य तिष्ठेद्धनं त्वयि ५.
आसं प्रमुदितश्चाहं पश्यंस्तं गिरिसत्तमम् ५.
यस्मिन्नानाविधा वृक्षाः प्रकाशंते समंततः ५.
मुदिता यत्र संतृप्ता वाशंते कोकिलादयः ५.
यत्र तप्त्वा तपो मर्त्या यथेप्सितमवाप्नुयुः ५.
तस्याहं च गिरेः पार्थ समासाद्य महाशिलाम् ५.
तावन्मया स्थानमाप्तं यदतीव सुदुर्लभम् ५.
ब्राह्मणाश्च विलोक्य मे ये हि पात्रतमा मताः ५.
न जलोत्तरणे शक्ता यद्वन्नौः कर्णवर्जिता ५.
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ५.
दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ५.