एवं विचिंत्य विद्वांसः प्रकुर्वंति यथारुचि ४.
मनोरथोऽयं सफलः संभूतोंकुरितः स्फुटम् ४.
अमूर्तैः पितृभिः पूर्वमेव ख्यातो हि मे पुरा ४.
प्रणम्य तीर्थं चलितो महीसागरसंगमम् ४.
इदं भणितवानस्मि श्लोकव्याख्यां नृप श्रृणु ४.
एवमुक्ते नृपः प्राह प्रोचुरेवं हि कोटिशः ४.
के द्विहेतू षडाख्यातान्यधिष्ठानानि कानि च ४.
के च प्रकाराश्चत्वारः किंस्वित्तत्त्रिविधं द्विज ४.
स्फुटान्प्रश्नानिमान्सप्त यदि वक्ष्यसि ब्राह्मण ४.
सप्त ग्रामांश्च दास्यामि नो चेद्यास्यसि स्वं गृहम् ४.
धर्मवर्माणमस्त्वेवं प्रावोचमवधारय ४.
अल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ४.
तत्र श्रद्धाविषये श्लोका भवन्ति ४.
धर्मः संप्राप्यते सूक्ष्मः श्रद्धा धर्मोऽद्भुतं तपः ४.
सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि ४.
श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः ४.
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ४.
यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः ४.
तस्माच्छ्रद्धावता पात्रे दत्तं न्यायार्जितं हि यत् ४.
शक्तिविषये च श्लोका भवंति मध्वास्वादो विषं पश्चाद्दातुर्धर्मोऽन्यथा भवेत्॥ ४.
शक्ते परजने दाता स्वजने दुःखजीविनि ४.
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदैहिकम् ४.
सामान्यं याचितं न्यासमाधिर्दाराश्च दर्शनम् ४.
आपत्स्वपि न देयानि नववस्तूनि पंडितैः ४.
इति ते गदितौ राजन्द्वौ हेतू श्रूयतामतः ४.
धर्ममर्थं च कामं च व्रीडाहर्षभयानि च ४.
पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ४.
धनिनं धनलोभेन लोभयित्वार्थमाहरेत् ४.
प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते ४.
संसदि व्रीडयाऽऽश्रुत्य आर्थिभ्यः प्रददाति च ४.