एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे ३.
ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत् ४.
यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम् ४.
तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम् ४.
श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया ४.
शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः ४.
शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः ४.
राजसेन च भावेन वित्तेन शबलेन च ४.
तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः ४.
तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत् ४.
तदप्यहो चातिकष्ट हेतुना तेन मे मतम् ४.
प्रतीग्रहेण संयुक्तं ह्यमीवमाविशोद्द्विजम् ४.
ततः केनाप्युपायेन द्वयोरन्यतरेण तु ४.
यथा कुभार्यः पुरुषश्चिन्तांतं न प्रपद्यते ४.
एतस्मिन्नन्तरे पार्थ स्नातुं तत्र समागताः ४.
अहं तानब्रवं सर्वान्कुतो यूयं समागताः ४.
धर्मवर्मेति नृपतिर्योऽस्य देशस्य भूपतिः ४.
ततस्तं प्राह खे वाणी श्लोकमेकं नृप श्रृणु ४.
चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते ४.
श्लोकस्यार्थं नावभाषे पृच्छमानापि नारद ४.
यस्तु श्लोकस्य चैवास्य लब्धस्य तपसा मया ४.
गवां च सप्त नियुतं सुवर्णं तावदेव तु ४.
पटहेनेति नृपतेः श्रुत्वा राज्ञो वचो महत् ४.
पुनर्दुर्बोधविन्यासः श्लोकस्तैर्विप्रपुंगवैः ४.
वयं च तत्र याताः स्मो धनलोभेन नारद ४.
दुर्व्याख्येयस्त्वयं श्लोको धनं लभ्यं न चैव नः ४.
एवं फाल्गुन तेषां तु वचः श्रुत्वा महात्मनाम् ४.
अहो प्राप्त उपायो मे स्थानप्राप्तौ न संशयः ४.
विद्यामूल्येन नैवं च याचितः स्यात्प्रतिग्रहः ४.
धर्मस्य यस्य श्रद्धा स्यान्न च सा नैव पूर्यते ४.