यामि वा तत्कथं पादौ चलतो मे कथंचन ३.
अतोऽहमतिमुह्यामि भृशं शोचामि रोदिमि ३.
साधुसाध्वित्यथोवाच तं सुभद्रोऽप्यहं तथा ३.
चिन्तयावश्च मनसि प्रतीकारं मुनेरुभौ ३.
परार्थाय भवत्येष पुरुषोऽन्ये पुरीषकाः ३.
मा मुने परिखिद्यस्व देवशर्मन्स्थिरो भव ३.
गमिष्याम्याश्रमं त्वं च नात्रापि परिहास्यते ३.
एवं ते वदमानस्य आयुरस्तु शतं समाः ३.
हर्षस्थाने विषादश्च पुनर्मां बाधते श्रृणु ३.
कथमेतन्महत्कर्म कारयामि मुधावद ३.
शापितोऽसि मया प्राणैर्यथा वच्मि तथा कुरु ३.
श्राद्धं गंगार्णवे चात्र मत्पितॄणां त्वमाचर चतुर्भागं प्रदास्यामि एवमेवैतदाचर॥ ३.
यद्येवं तव संतोषस्त्वेवमस्तु मुनीश्वर ३.
देवशर्मा ततो हृष्टो दत्त्वा पुण्यं त्रिवाचिकम् ३.
एवंविधो नारदासौ मही सागरसंगमः ३.
इति श्रुत्वा फाल्गुनाहं हर्षगद्गदया गिरा ३.
यूयं वयं गमिष्यामो महीतीरं सुशोभनम् ३.
मम चैवं वचः श्रुत्वा भृगुः सह मयययौ ३.
तद्दृष्ट्वा चातिहृष्टोहमासं रोमांचकंचुकः ३.
त्वत्प्रसादात्करिष्यामि भृगो स्थानमनुत्तमम् ३.
एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे ३.
ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत् ४.
यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम् ४.
तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम् ४.
श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया ४.
शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः ४.
शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः ४.
राजसेन च भावेन वित्तेन शबलेन च ४.
तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः ४.
तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत् ४.