सा समुद्रेण संप्राप्ता पुण्यतोया महानदी ३.
स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम् ३.
सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम् ३.
तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम् ३.
तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम् ३.
भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः ३.
सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम् ३.
अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम् ३.
किमर्थं रोदिशि मुने शोके किं कारणं तव ३.
मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम् ३.
तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम् ३.
मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम् ३.
किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम ३.
सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ ३.
कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः ३.
अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी ३.
निवसामि कृतस्थानो गंगासागरसंगमे ३.
श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च ३.
वयं सदात्र चायामो देवशर्मंस्तवांतिके ३.
स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम् ३.
पितॄणां मंदिरं पुण्यं भौमलोकसमास्थितम् ३.
दृष्ट्वाग्रतः पूजयाढ्यानपृच्छं स्वान्पितॄनिति भृशंप्रमुदिता नैव तथा यूयं यथा ह्यमी॥ ३.
भद्रं ते पितरः पुण्याः सुभद्रस्य महामुनेः ३.
सर्वतीर्थमयी यत्र निलीना ह्युदधौ मही ३.
इत्याकर्ण्य वचस्तेषां लज्जितोऽहं भृशंतदा ३.
यथा तथा चिंतितं च तत्र यास्याम्यहं श्फुटम् ३.
कृताश्रमश्च तत्रैव तर्पयिष्ये निजान्पितॄन् ३.
किं तेन ननु जातेन कुलांगारेण पापिना ३.
इति संचिंत्य मुदितो रुचिं भार्यामथाब्रवुम् ३.
गत्वा स्थास्यामि तत्रैव शीघ्रं त्वं सम्मुखीभव तस्मादेतन्मम शुभे कर्तुमर्हसि चिंतितम्॥ ३.