आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा ३.
कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह ३.
विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह ३.
आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम् ३.
श्रूयतामभिधास्यामि यदर्थमहामागतः ३.
द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे ३.
रम्यां मनोरमां भूमिं न पश्यामि कथंचन भृगुरुवाच ३.
पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ ३.
दिव्या मनोरमा सौम्या महापापप्रणाशिनी ३.
पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद ३.
सा समुद्रेण संप्राप्ता पुण्यतोया महानदी ३.
स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम् ३.
सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम् ३.
तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम् ३.
तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम् ३.
भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः ३.
सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम् ३.
अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम् ३.
किमर्थं रोदिशि मुने शोके किं कारणं तव ३.
मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम् ३.
तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम् ३.
मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम् ३.
किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम ३.
सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ ३.
कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः ३.
अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी ३.
निवसामि कृतस्थानो गंगासागरसंगमे ३.
श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च ३.
वयं सदात्र चायामो देवशर्मंस्तवांतिके ३.
स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम् ३.