अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः २.
ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः २.
यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि २.
अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम् २.
स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान् २.
एवं स्थानानि पुण्यानि यानियानीह वै भुवि ३.
विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः ३.
महापुण्या पवित्रा च सर्वतीर्थमयी शुभा ३.
तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा ३.
इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता ३.
यत्र वै स्नानमात्रेण ब्रह्महत्या प्रणश्यति ३.
नानावृक्षसमाकीर्णं लतागुल्मोपशोभितम् ३.
अनेकाश्वापदाकीर्णं विहगैरनुनादितम् ३.
भ्रमरैः सर्वमुत्सृज्य निलीनं रावसंयुतम् ३.
कोकिला मधुरैः स्वानैर्नादयंति तथा मुनीन् ३.
यत्र वृक्षा ह्लादयंति फलैः पुष्पैश्च पत्रकैः ३.
पुत्रपुत्रेति वाशंते यत्र पुत्रप्रियाः खगाः ३.
एवंविधं मुनेस्तस्य भृगोराश्रममंडलम् ३.
ऋग्यजुः सामनिर्घोपैरारूरितदिगन्तरम् ३.
तत्राहं पार्थ संप्राप्तो यत्रास्ते मुनिसत्तमः ३.
आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा ३.
कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह ३.
विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह ३.
आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम् ३.
श्रूयतामभिधास्यामि यदर्थमहामागतः ३.
द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे ३.
रम्यां मनोरमां भूमिं न पश्यामि कथंचन भृगुरुवाच ३.
पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ ३.
दिव्या मनोरमा सौम्या महापापप्रणाशिनी ३.
पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद ३.