दानं चतुर्विधं दानमुत्सर्गः कल्पितं तथा २.
वापीकूपतडागानां वृक्षविद्यासुरौकसाम् २.
उपजीवन्निमान्यश्च पुण्यं कोऽपि चरेन्नरः २.
तदेषामेव सर्वेषां विप्रसंस्थापनं परम् २.
देवतायतनं यावद्यावच्च ब्राह्मणगृहम् २.
एतत्स्वल्पं हि वाणिज्यं पुनर्बहुफलप्रदम् २.
तस्मादिदं त्वहमपिब्रवीमि सुरसत्तमाः २.
इति सारस्वतप्रोक्तां तथा पद्मभुवेरिताम् २.
ततः सभाविसर्गांते सुरम्ये मेरुमूर्धनि २.
सत्यमाह विरंचिस्तु स किमर्थं तु जीवति २.
तदहं दानपुण्यं हि करिष्यामि कथं स्फुटम् २.
अनर्हते यद्ददाति न ददाति तथार्हते २.
देशेकाले च पात्रे च शुद्धेन मनसा तथा २.
तमोवृतस्तु यो दद्यात्क्रोधात्तथैव च २.
बालत्वेऽपि च सोऽश्राति यद्दत्तं दम्भकारणात् २.
वृद्धत्वे हि समश्राति नरो वै नात्र भविष्यति शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः॥ २.
तदेतन्निर्धनत्वाच्च कथं नाम भविष्यति २.
नाधनस्यास्त्ययं लोको न परश्च कथंचन २.
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति २.
यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः २.
अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः २.
ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः २.
यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि २.
अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम् २.
स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान् २.
एवं स्थानानि पुण्यानि यानियानीह वै भुवि ३.
विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः ३.
महापुण्या पवित्रा च सर्वतीर्थमयी शुभा ३.
तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा ३.
इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता ३.