अहन्यहनि याचंतमहं मन्ये गुरुं यथा २.
दीयमानं हि नापैति भूय एवाभिवर्धते २.
एकजन्मसुखस्यार्थे सहस्राणि विलापयेत् २.
मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया २.
किं धनेन करिष्यंति देहिनो भंगुराश्रयाः २.
अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा २.
बोधयंति च यावंतो देहीति कृपणं जनाः २.
दातुरेवोपकाराय वदत्यर्थीति देहि मे २.
दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा २.
धनवंतमदातारं दरिद्रं वाऽतपस्विनम् २.
शतेषु जायते शूरः सहस्रेषु च पंडितः २.
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः २.
शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम् २.
प्रतर्द्दनः काशिपति प्रदाय नयने स्वके २.
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् २.
अवर्षति च पर्जन्ये सर्वभूतनिवासकृत् २.
ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः २.
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः २.
एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः २.
एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी २.
सोऽपि मोह परित्यज्य तथा कात्यायनोऽभवत्॥ २.
एवं सुश्रवसा प्रोक्तां कथामाकर्ण्य पद्मभूः २.
साधु ते व्याहृतं वत्स एवमेतन्न चान्यथा २.
दानं यज्ञानां वरूथं दक्षिणा लोके दातारँसर्वभूतान्युपजीवंति दानेनारातीरँपानुदंत दानेन द्विषंतो मित्रा भवंति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदंतीति॥ २.
संसारसागरे घोरे धर्माधर्मोर्मिसंकुले २.
इति संचिंत्य च मया पुष्करे स्थापिता द्विजाः २.
स्थापिताः श्रीहरिभ्यां तु श्रीगौर्या वेदवित्तमाः २.
श्रीमाले च तथा लक्ष्म्या ह्येवमादिसुरोत्तमैः २.
न हि दानफले कांक्षा काचिन्नऽस्ति सुरोत्तमाः २.
ब्राह्मणाश्च कृतस्थाना नानाधर्मोपदेशनैः २.