तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा २.
यदि लाभे न यत्नस्ते मूलं रक्ष प्रयत्नतः २.
गंतुं दुःखोदधेः पारं तर यावन्न भिद्यते २.
नापक्रामति संसारादात्महा स नराधमः दानानि चात्र दीयंते परलोकार्थमादरात्॥ २.
दानस्य तपसो वापि भगवन्किं च दुष्करम् २.
न दानाद्दुष्करतरं पृथिव्यामस्ति किंचन २.
परित्यज्य प्रियान्प्राणान्धनार्थे हि महाभयम् २.
सेवामन्ये प्रपद्यंते श्ववृत्तिरिति या स्मृता २.
तस्य दुःखार्जितस्येह प्राणेभ्योपि गरीयसः २.
यद्ददाति यदश्नाति तदेव धनिनो धनम् २.
अहन्यहनि याचंतमहं मन्ये गुरुं यथा २.
दीयमानं हि नापैति भूय एवाभिवर्धते २.
एकजन्मसुखस्यार्थे सहस्राणि विलापयेत् २.
मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया २.
किं धनेन करिष्यंति देहिनो भंगुराश्रयाः २.
अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा २.
बोधयंति च यावंतो देहीति कृपणं जनाः २.
दातुरेवोपकाराय वदत्यर्थीति देहि मे २.
दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा २.
धनवंतमदातारं दरिद्रं वाऽतपस्विनम् २.
शतेषु जायते शूरः सहस्रेषु च पंडितः २.
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः २.
शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम् २.
प्रतर्द्दनः काशिपति प्रदाय नयने स्वके २.
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् २.
अवर्षति च पर्जन्ये सर्वभूतनिवासकृत् २.
ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः २.
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः २.
एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः २.
एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी २.