उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान् साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम्॥ २.
पापानामसदालापैरायुर्याति यथान्वहम् २.
यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया २.
गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम् २.
विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव २.
उविष्टः प्रमुदितः कपिलेन सहैव च २.
प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा २.
चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत् २.
किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता २.
सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान् २.
तथापि खलु वाच्यं मे परार्थं प्रेरितेन ते २.
सारजिज्ञासया तस्थावेकांगुष्ठः शतं समाः २.
पुण्ये सरस्वतीतीरे पृच्छ सारस्वतं मुनिम् २.
इति श्रुत्वा मुनिवरो मुनिश्रेष्ठमुपेत्य तम् २.
सत्यं केचित्प्रशंसंतितपः शौचं तथा परे २.
क्षमां केचित्प्रशंसंति तथैव भृशमार्ज्जवम् २.
सम्यग्ज्ञानं प्रशंसंति केचिद्वैराग्यमुत्तमम् २.
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनम् २.
व्यामोहमेव गच्छंति किं श्रेय इति वादिनः २.
वक्तुमर्हसि धर्मज्ञ मम सर्वार्थसाधकम्॥ २.
यन्मां सरस्वती प्राह सारं वक्ष्यामि तच्छृणु वारांगनानेत्रभंगस्वद्वद्भंगुरमेव तत्॥ २.
धनायुर्यौवनं भोगाञ्जलचंद्रवदस्थिरान् २.
दानवान्पुरुषः पापं नालं कर्तुमिति श्रुतिः २.
सावर्णिना च गाथे द्वे कीर्तिते श्रृणु ये पुरा २.
पूज्यते स महादेवः स धर्मः पर उच्यते २.
क्रोधपंके मदग्राहे लोभबुद्बदसंकटे २.
मज्जंतं तारयत्येको हरः संसारसागरात् २.
परोपकरणं कायादसारात्सारमुद्धरेत् २.
इंद्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम् २.
न कुर्यादात्मनः श्रेयस्तेनात्मा वंचतश्चिरम् २.