त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः
गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् 1.3.1.13.
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः
आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम्
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः
देवैरभ्यर्थितः सोहमाहूयासुरनायकम्
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान्
मदंगसंभवं दिव्यं सौरभं विश्वमोहनम्
पुलकस्वेदजातो हि सदा प्रख्यायतां तव
त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः
सदा बहुमतो देव्या दिव्यसौरभलुब्धया 1.3.1.13.
लीयंतां तव देवेश मूर्तावालेपनच्छलात्
विससर्ज निजं देहं मयिसन्यस्तजीवितः
अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम्
मदंगं च वियोगात्त इदं निर्वापयाधुना
आलिलिंप महादेवः पार्वतीं प्रेममंदिराम्
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः
तपः कर्तुमनुप्राप्ता कांचीं कनकतोरणाम्
अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम्
यदक्षयमविश्रांतमर्चनायोजितं मया 1.3.1.13.
अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा
सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च
रक्षणीया प्रयत्नेन तत्संनिधिमुपागतैः आलोक्यतामिदं रूपं कन्यायां मम कांतिमत्
तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम्
सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः
संपश्यंति नमस्यंति कृतार्थाः सर्व एव ते
भवंति सततं तेषां समग्राः सर्वसंपदः