योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्॥ १.
ततो द्विजौः परिवृतं नारदं देवपूजितम् २.
ततस्तं नारदः प्राह जयारातिधनंजय २.
कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम् २.
मुनीनामपि चेतांसि तीर्थयात्रासु पांडव २.
कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव २.
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् २.
तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे २.
पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम् २.
विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति॥ २.
यस्यामलामृतयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुंठः २.
प्रियं च पार्थ ते ब्रूमो येषां कुशलकामुकः २.
अधुना भीमसेनेन कुरूणामुपतापकः २.
स हि राज्ञामजेयोऽभूद्यथापूर्वं बलिर्बली २.
इत्यादिनारदप्रोक्तां वाचमाकर्ण्य फाल्गुनः २.
ये ब्राह्मणमते नित्यं ये च ब्राह्मणपूजकाः २.
आगतस्तीर्थमेतद्धि प्रमोदोऽतीव मे हृदि २.
माहात्म्यश्रवणं तस्मादौर्वोपि मुनिरब्रवीत् २.
एतेनैव श्राव्यमेतद्यत्त्वयांगीकृतं मुने २.
तदेतत्सर्वतीर्थेभ्योऽधिकं मन्ये त्वदा हृतम्॥ २.
उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान् साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम्॥ २.
पापानामसदालापैरायुर्याति यथान्वहम् २.
यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया २.
गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम् २.
विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव २.
उविष्टः प्रमुदितः कपिलेन सहैव च २.
प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा २.
चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत् २.
किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता २.
सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान् २.