भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः १.
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् १.
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले १.
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः॥ १.
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्॥ १.
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः १.
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः १.
दृष्टवत्यो महाभागं देवर्षिमथ नारदम् १.
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः १.
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत् १.
पुण्यानि रमणीयानि तानि गच्छत मा चिरम् १.
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः १.
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव १.
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात् १.
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः १.
एष मे हृदि संदेहः सुदृढः परिवर्तते १.
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः १.
तथैव नवदुर्गासु सतीष्वतिबलासु च १.
एकैक एषां शक्तो हि अपि देवान्निवारितुम् १.
इति चिंतयते मह्यं भृशं दोलायते मनः १.
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्॥ १.
ततो द्विजौः परिवृतं नारदं देवपूजितम् २.
ततस्तं नारदः प्राह जयारातिधनंजय २.
कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम् २.
मुनीनामपि चेतांसि तीर्थयात्रासु पांडव २.
कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव २.
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् २.
तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे २.
पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम् २.
विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति॥ २.