पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः १.
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः १.
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा १.
षड्धातुसारं तद्वीर्यं समानं परिहाय च १.
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः १.
मनुष्यं पितरो देवा मुनयो मानवास्तथा १.
वचसा मनसा चैव जिह्वया करश्रोत्रकैः १.
काकप्राये नरे यस्मिन्रमंते तामसा जनाः १.
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि १.
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः १.
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः १.
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् १.
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले १.
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः॥ १.
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्॥ १.
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः १.
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः १.
दृष्टवत्यो महाभागं देवर्षिमथ नारदम् १.
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः १.
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत् १.
पुण्यानि रमणीयानि तानि गच्छत मा चिरम् १.
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः १.
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव १.
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात् १.
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः १.
एष मे हृदि संदेहः सुदृढः परिवर्तते १.
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः १.
तथैव नवदुर्गासु सतीष्वतिबलासु च १.
एकैक एषां शक्तो हि अपि देवान्निवारितुम् १.
इति चिंतयते मह्यं भृशं दोलायते मनः १.