ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम् १.
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान् १.
तमादायैव कौतेयो विस्फुरंतं जलेचरम् १.
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना १.
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा १.
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् १.
किमर्थं च महात्पापमिदं कृतवती ह्यसि नार्युवाच १.
इष्टा धनपतेर्नित्यं वर्चानाम महाबल १.
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात् १.
रूपवंतमधीयानमेकमेकांतचारिणम् १.
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत् १.
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया १.
यौगपद्येन तं विप्रमभ्यगच्छाम भारत १.
स च नास्मासु कृतवान्मनोवीरः कथंचन १.
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ १.
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम १.
रूपेण वयसा चैव कंदर्पेण च दर्पिताः १.
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन १.
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः १.
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम् १.
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् १.
भवतीनां चरित्रेण परिमुह्यामि चेतसि १.
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः १.
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम् १.
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः १.
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते १.
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये १.
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे १.
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम् १.
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम् १.