किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः तापसा ऊचुः १.
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन १.
ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन १.
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि १.
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम् १.
धर्मकामं हि मनुजं यो वारयति मंदधीः १.
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम् १.
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च १.
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम् १.
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः १.
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम् १.
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान् १.
तमादायैव कौतेयो विस्फुरंतं जलेचरम् १.
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना १.
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा १.
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् १.
किमर्थं च महात्पापमिदं कृतवती ह्यसि नार्युवाच १.
इष्टा धनपतेर्नित्यं वर्चानाम महाबल १.
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात् १.
रूपवंतमधीयानमेकमेकांतचारिणम् १.
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत् १.
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया १.
यौगपद्येन तं विप्रमभ्यगच्छाम भारत १.
स च नास्मासु कृतवान्मनोवीरः कथंचन १.
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ १.
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम १.
रूपेण वयसा चैव कंदर्पेण च दर्पिताः १.
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन १.
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः १.
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम् १.