कठिनतुंगघनस्तनकोरकस्थगितमंगलगंधमनोहराम्
अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम्
सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये
अयाचत्तादृशा शंभुमविनाभावमात्मनः
इदं विज्ञापयामास लोकानुग्रहकारणात्
न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् मनोहरमिदं रूपमेतत्ते लोकमंगलम्
आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम्
भीषणैरलमीशान जय वेषपरिग्रहैः
भूषितो रत्नभूषाभिर्विहरस्व महेश्वर
सेवंतामत्र देवेशं नृत्यवादित्रगीतिभिः
त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः
गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् 1.3.1.13.
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः
आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम्
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः
देवैरभ्यर्थितः सोहमाहूयासुरनायकम्
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान्
मदंगसंभवं दिव्यं सौरभं विश्वमोहनम्
पुलकस्वेदजातो हि सदा प्रख्यायतां तव
त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः
सदा बहुमतो देव्या दिव्यसौरभलुब्धया 1.3.1.13.
लीयंतां तव देवेश मूर्तावालेपनच्छलात्
विससर्ज निजं देहं मयिसन्यस्तजीवितः
अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम्
मदंगं च वियोगात्त इदं निर्वापयाधुना
आलिलिंप महादेवः पार्वतीं प्रेममंदिराम्
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः