पितरं कथयाशु त्वं स्थितः कुत्र शुभानने ३५.
एतदुक्तं तदा तेन निशम्यासितनेत्रया ३५.
स्थितं कैलासशिखरे हिमवंतं नगोत्तमम् ३५.
द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च ददाति मां न संदेहस्तपस्विन्मा विलंबितम्॥ ३५.
तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे ३५.
कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः ३५.
किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम् ३५.
त्वया ततमिदं विश्वं जगदेतच्चराचरम् आगतो नारदस्तत्र ऋषिभिः परिवारितः॥ ३५.
उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो ३५.
योषिद्भिः संगति पुंसां विडंबायोपकल्पते विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि॥ ३५.
एवं प्रबोधितस्तेन नारदेन महात्मना ३५.
सत्यमुक्तं त्वया चात्र नान्यथा नारदक्वचित् ३५.
भविष्यति न संदेहो नान्यथा वचनं तव ३५.
पिशाचवत्कृतमिदं चरितं परमाद्भुतम्॥ ३५.
तस्मान्न तिष्ठामि गिरेः समीपे व्रजामि चाद्यैव वनांतरं पुनः ३५.
निरालंबं स विज्ञाय नारदो वाक्यमब्रवीत् ३५.
वंदनीयश्च स्तुत्यश्च क्षाम्यतां परमार्थतः ३५.
एतच्छ्रुत्वा तु वचनं नारदस्य मुखोद्गतम् ३५.
दण्डवत्पतिताः सर्वे शंकरं लोकशंकरम् ३५.
स्तूयमानो हि भगवानागतो गंधमादनम् ३५.
तदा दुन्दुभयो नेदुर्वादित्राणि बहूनि च ३५.
ब्रह्मादिभिः सुरगणैर्बहुभिः परीतो योगीश्वरो गिरिजया सह विश्ववंद्यः ३५.
एवंविधान्यनेकानि चरितानि महात्मनः ३५.
यानियानीह रुद्रस्य चरितानि महांत्यपि ३५.
एव मुक्तं त्वया सूत चरितं शंकरस्य च ३५.
व्यासप्रसादाच्छ्रुतमस्ति सर्वं मया ततं शंकररूपमद्भुतम् ३५.
श्रद्धया परयोपेताः श्रावयंति शिवप्रियम् शिवशास्त्रमिदं प्रीत्या ते यांति मरमां गतिम्॥ ३५.
श्रीगणेशाय नमः नमतस्मै ब्रह्मणे दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च १.
सर्वतीर्थफलं येषु नारदाद्य वदंति च १.
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम् १.