प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा ३५.
यावत्करे गृह्यमाणो गिरिजां स समीपगः ३५.
तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः ३५.
विरहेण समायुक्तो हृच्छयेन समन्वितः ३५.
निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः ३५.
वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे॥ ३५.
पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम् ३५.
इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः ३५.
विमृश्यतां वरारोहे तत्त्वतो हि वरानने ३५.
मयार्थितो महाभाग पतिस्त्वं नान्यथा वद ३५.
यया पुरा वृतोऽसि त्वं तपसा च परेण हि ३५.
दुराराध्योऽसि सततं सर्वेषां प्राणिनामपि ३५.
शबर्या वचनं श्रुत्वा प्रत्युवाच वृषध्वजः यदि त्यक्ता मया तन्वि किं वक्तुमिह पार्यते॥ ३५.
एवं ज्ञात्वा विशालाक्षि कृपणं कृपणप्रियम् ३५.
एवमभ्यर्थिता तेन बहुधा शूलपाणिना ३५.
तपोधनोऽसि योगीश विरक्तोऽसि निरंजनः ३५.
स त्वं साक्षाद्विरूपाक्षो मया दृष्टोसि चाद्य वै तस्मात्त्वया न वक्तव्यं यदुक्तं च पुरा मम॥ ३५.
तस्यास्तद्वचनं श्रुत्वा प्रोवाच मदनांतकः ३५.
इत्युक्त्वा तां करेऽगृह्णाच्छबरीं मदनातुरः ३५.
नोचितं भगवान्कर्तुं तापसेन बलादिदम् ३५.
पितरं कथयाशु त्वं स्थितः कुत्र शुभानने ३५.
एतदुक्तं तदा तेन निशम्यासितनेत्रया ३५.
स्थितं कैलासशिखरे हिमवंतं नगोत्तमम् ३५.
द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च ददाति मां न संदेहस्तपस्विन्मा विलंबितम्॥ ३५.
तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे ३५.
कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः ३५.
किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम् ३५.
त्वया ततमिदं विश्वं जगदेतच्चराचरम् आगतो नारदस्तत्र ऋषिभिः परिवारितः॥ ३५.
उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो ३५.
योषिद्भिः संगति पुंसां विडंबायोपकल्पते विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि॥ ३५.