पद्मासने चोपविष्टो महेशो योगवित्तमः ३४.
शुशुभे स महादेवः समाधौ चंद्रशेखरः वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.
आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.
वनं गते महादेवे गिरिजा विरहातुरा ३५.
चिंतयंती शिवंतन्वी सर्वभावेन शोभना ३५.
तपसा महता चैव शिवं प्राप्तासि शोभने ३५.
द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे ३५.
अस्माभिः सहिता देवि गच्छगच्छ वरानने॥ ३५.
यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व ३५.
निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः ३५.
मया जितोऽसौ निरपत्रपश्च पुरा वृतो वै परया विभूत्या ३५.
रूपीकृतो मया देवो महेशो नान्यथा वद ३५.
साकारो हि निराकारो महेशो हि मया कृतः॥ ३५.
कृतं मया विश्वमिदं समग्रं चराचरं देववरैः समेतम् ३५.
एवमुक्त्वा तदा देवी गिरिजा सर्वमंगला ३५.
श्यामा तन्वी शिखरदशना बिंबबिंबाधरोष्ठी सुग्रीवाढ्या कुचभरनता गिरिजा स्निग्धकेशी ३५.
पाणौ मृणालसदृशं दधती च चापं पृष्ठे लसत्कृतककेतकिबाणकोशम् ३५.
भृंगीनादेन महता नादयंती जगत्त्रयम् ३५.
सकामना राजहंसा बभूवुस्तत्क्षणादपि ३५
एकाकी संस्थितो यत्र यमाधिस्थो महेश्वरः ३५.
प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा ३५.
यावत्करे गृह्यमाणो गिरिजां स समीपगः ३५.
तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः ३५.
विरहेण समायुक्तो हृच्छयेन समन्वितः ३५.
निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः ३५.
वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे॥ ३५.
पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम् ३५.
इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः ३५.
विमृश्यतां वरारोहे तत्त्वतो हि वरानने ३५.
मयार्थितो महाभाग पतिस्त्वं नान्यथा वद ३५.