तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः ३४.
कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा ३४.
ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम् ३४.
यथा हि मदनो दग्धस्तथेयं नान्यथा वचः ३४.
विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया ३४.
किमालोकपरो भूत्वा चक्षुषा परमेण हि ३४.
त्रिपुरो नैव वै शंभो नांधको वृषभध्वज वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः॥ ३४.
एवमादीन्यनेकानि हयुवाच परमेश्वरी ३४.
वनमेव वरं चाद्य विजनं परमार्थतः ३४.
स सुखी परमार्थज्ञः स विद्वान्स च पंडितः ३४.
एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम् ३४.
निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः ३४.
छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः ३४.
ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः ३४.
शोभमानो महादेव एभिः सर्वैः सुशोभनैः ३४.
सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता ३४.
ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा ३४.
भृंगिणं नंदिनं चंडं सोमनंदिनमेव च ३४.
विसृज्य च महादेव एक एव महातपाः ३४.
काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम् ३४.
पद्मासने चोपविष्टो महेशो योगवित्तमः ३४.
शुशुभे स महादेवः समाधौ चंद्रशेखरः वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.
आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.
वनं गते महादेवे गिरिजा विरहातुरा ३५.
चिंतयंती शिवंतन्वी सर्वभावेन शोभना ३५.
तपसा महता चैव शिवं प्राप्तासि शोभने ३५.
द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे ३५.
अस्माभिः सहिता देवि गच्छगच्छ वरानने॥ ३५.
यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व ३५.
निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः ३५.