तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह ३४.
अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि ३४.
तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर॥ ३४.
एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः ३४.
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः ३४.
तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा ३४.
मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि ॥ ३४.
एवं विवदमानौ तौ दंपती परमेश्वरौ ३४.
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम् ३४.
अजितो हि महादेवो देवानां परमो गुरुः ३४.
एक एव परं ज्योतिस्तेषामपि च यन्महः ३४.
कथं त्वया जितो देवि ह्यजेयो भुवनत्रये ३४.
नारदेनैवमुक्ता सा कुपिता पार्वती भृशम् ३४.
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ३४.
कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु ३४.
मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.
एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत् ३४.
त्वया बहु न वक्तव्यं पुनरेव च भामिनि ३४.
स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम् ३४.
यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः ३४.
xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा॥ ३४.
भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम् ३४.
हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम ३४.
अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः ३४.
श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा ३४.
पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता ३४.
तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया ३४.१०६ कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि ३४.
सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम् ३४.
शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते ३४.
भक्तासि त्वं महादेवि महाभाग्यवतां वरे ३४.