स पणं च तदा चक्रे छलेन महता वृतः ३४.
नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत् ३४.
नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम् ३४.
तथा शिरोमणी चैव तरले च मनोहरे दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.
तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः ३४.
क्रियते च त्वया शंभो कः पणो हि तदुच्यताम् ३४.
मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत् ३४.
इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम् ३४.
एवं विक्रीडमानौ तावक्षविद्याविशारदौ ३४.
प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी ३४.
तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह ३४.
अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि ३४.
तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर॥ ३४.
एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः ३४.
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः ३४.
तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा ३४.
मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि ॥ ३४.
एवं विवदमानौ तौ दंपती परमेश्वरौ ३४.
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम् ३४.
अजितो हि महादेवो देवानां परमो गुरुः ३४.
एक एव परं ज्योतिस्तेषामपि च यन्महः ३४.
कथं त्वया जितो देवि ह्यजेयो भुवनत्रये ३४.
नारदेनैवमुक्ता सा कुपिता पार्वती भृशम् ३४.
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ३४.
कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु ३४.
मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.
एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत् ३४.
त्वया बहु न वक्तव्यं पुनरेव च भामिनि ३४.
स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम् ३४.
यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः ३४.