तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुंदरी ३४.
दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये ३४.
साकारौ च निराकारौ निरातंकौ सुखप्रदौ उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ॥ ३४.
नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि ३४.
पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः ३४.
एवं स्तुतौ तदा तेन नारदेन महात्मना ३४.
सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते ३४.
दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो ३४.
क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम् ३४.
तथापि दर्शनं भाव्यं सततं प्राणिनामिह॥ ३४.
का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः ३४.
द्यूतक्रीडा महादेव दृश्यते विविधात्र च ३४.
इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति ३४.
त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः ३४.
एवमुक्तस्तदा देव्या नारदो देवदर्शनः ३४.
द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे॥ ३४.
निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति ३४.
इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी ३४.
तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन ३४.
सखीजनेन संवीता तदा द्यूतपरा सती ३४.
स पणं च तदा चक्रे छलेन महता वृतः ३४.
नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत् ३४.
नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम् ३४.
तथा शिरोमणी चैव तरले च मनोहरे दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.
तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः ३४.
क्रियते च त्वया शंभो कः पणो हि तदुच्यताम् ३४.
मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत् ३४.
इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम् ३४.
एवं विक्रीडमानौ तावक्षविद्याविशारदौ ३४.
प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी ३४.