गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः ३४.
कूपो हि पयसां ये न पवित्रं वर्तते जगत् ३४.
सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना ३४.
एवं विलोकमानोऽसौ नारदो भगवानृषिः ३४.
यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च ३४.
नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा ३४.
तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च ३४.
ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा ३४.
तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना ३४.
एवमादीन्यनेकानि आश्चर्याणि ददर्श सः ३४.
अर्धासनगता साध्वी शंकरस्य महात्मनः ३४.
गौरी सितेक्षणा बाला तन्वंगी चारुलोचना ३४.
निर्विकानि विकारैश्च बहुभिर्विकलीकृतः ३४.
नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः ३४.
शंखेन भोगिवर्येण सेवितं चांघ्रिपंकजम् तथा पद्मेन महा शेषेणापि विशेषतः॥ ३४.
अन्यैश्च नागवर्यैश्च सेवितो हि निरंतरंम् ३४.
कंबलाश्वतरौ नित्यं कर्णभूषणभूषितौ ३४.
अनेकजातिसंवीता नानावर्णाश्च पद्मिनः ३४.
पद्मो दंभः सुदंभश्च करालो भीषणस्तथा ३४.
अंगभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये ३४.
फणानां द्वितयं केषां त्रितयं च महाप्रभम् ३४.
नवकं दशकं चैव तथैकादशकं त्वथ ३४.
चत्वारिंशत्फणाः केऽपि पंचाशत्कं च षष्टिकम् ३४.
तथा शतसहस्राणि ह्ययुतप्रयुतानि च ३४.
अनंताश्च फणा येषां ते सर्पाः शिवभूषणाः ३४.
विद्यावंतोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः ३४.
अर्द्धचंद्रांकितो यस्य कपर्द्दस्त्वतिसुंदरः ३४.
पंचवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः ३४.
उरो यस्य विशालं च तथोरुजघनं परम् ३४.
तद्दृष्टं चरणारविंदमतुलं तेजोमयं सुंदरं संध्यारागसुमंगलं च परमं तापापनुत्तिंकरम् ३४.