ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके ३३.
राज्यं चकार कैलास दवदवा जगत्पतिः ३४.
ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह ३४.
इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत् ३४.
सूपान्नकर्ता सततं जातवदा निरन्तरम् ३४.
विद्याधराश्च बहवस्तथा चाप्सरसां गणाः ३४.
पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह ३४.
येनांधको महा दैत्यः स देवानामरिर्महान् ३४.
हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम् विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः॥ ३४.
तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः ३४.
सुधया परया चापि सेवितं परमाद्भुतम् नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्॥ ३४.
अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम् ३४.
कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः ३४.
पारिजातवनामोदलंपटा बहवोऽलयः ३४.
शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा ३४.
करिणः करिणीभिश्च मोदमानाः सुवर्चसः ३४.
वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम् ३४.
नागपुंनागबकुलाश्चंपका नागकेसराः ३४.
कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः ३४.
तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी आरामा बहवस्तत्र द्विगुणाश्च बभूविरे॥ ३४.
गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः ३४.
कूपो हि पयसां ये न पवित्रं वर्तते जगत् ३४.
सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना ३४.
एवं विलोकमानोऽसौ नारदो भगवानृषिः ३४.
यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च ३४.
नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा ३४.
तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च ३४.
ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा ३४.
तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना ३४.
एवमादीन्यनेकानि आश्चर्याणि ददर्श सः ३४.