शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.
शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः ३३.
आयुष्यं च गतं तस्य शिवध्यानपरस्य च ३३.
संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः ३३.
ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम् विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.
एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम् ३३.
मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् ३३.
दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात् वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.
शिवरात्रिव्रतेनैव तारिता बहवः पुरा ३३.
मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः ३३.
ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके ३३.
राज्यं चकार कैलास दवदवा जगत्पतिः ३४.
ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह ३४.
इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत् ३४.
सूपान्नकर्ता सततं जातवदा निरन्तरम् ३४.
विद्याधराश्च बहवस्तथा चाप्सरसां गणाः ३४.
पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह ३४.
येनांधको महा दैत्यः स देवानामरिर्महान् ३४.
हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम् विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः॥ ३४.
तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः ३४.
सुधया परया चापि सेवितं परमाद्भुतम् नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्॥ ३४.
अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम् ३४.
कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः ३४.
पारिजातवनामोदलंपटा बहवोऽलयः ३४.
शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा ३४.
करिणः करिणीभिश्च मोदमानाः सुवर्चसः ३४.
वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम् ३४.
नागपुंनागबकुलाश्चंपका नागकेसराः ३४.
कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः ३४.
तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी आरामा बहवस्तत्र द्विगुणाश्च बभूविरे॥ ३४.