सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च ३३.
निमिषाणां च षष्ट्या वै फल इत्यभिधीयते ३३.
पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः ३३.
प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च ३३.
पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया ३३.
अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः॥ ३३.
योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा ३३.
संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि ३३.
पञ्चमी नागराजस्य कुमारस्य च षष्ठिका ३३.
ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा ३३.
चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी॥ ३३.
शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी ३३.
ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला ३३.
तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः ३३.
महापापप्रयोगाच्च पापमारभते सदा ३३.
मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ॥ ३३.
श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके ३३.
स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात् ३३.
भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः ३३.
नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः ३३.
शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.
शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः ३३.
आयुष्यं च गतं तस्य शिवध्यानपरस्य च ३३.
संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः ३३.
ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम् विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.
एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम् ३३.
मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् ३३.
दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात् वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.
शिवरात्रिव्रतेनैव तारिता बहवः पुरा ३३.
मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः ३३.