कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ३३.
पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः ३३.
प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना ३३.
लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ३३.
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ३३.
किं मया कृतमद्यैव पापिना हिंसकेन च ३३.
पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम् ३३.
परं कौतुकमापन्नः पृच्छामि त्वां यथातथम् ३३.
इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि ३३.
देवदेवो महादेवो देवानां पतिरीश्वरः ३३.
प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च॥ ३३.
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो॥ ३३.
ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम् ३३.
छलेनैव महाभाग कोलसंदर्शनेन हि ३३.
तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा ३३.
एवमुक्तस्तदा तेन वीरभद्रेण धीमता ३३.
गणानां देवतानां च सर्वेषां प्राणिनामपि ३३.
वीणावेणुमृदंगानि तस्य चाग्रे गतानि च ३३.
विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः महोत्सवेन महता आनीतो गंधमादनम्॥ ३३.
शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा ३३.
पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम् ३३.
पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत् ३३.
चंडेन वै पुष्कसेन सफलं तस्य चाभवत् ३३.
किं फलं तस्य चोद्देशः केन चैव पुना कृतम् ३३.
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना ३३.
द्वादश राशयस्तत्र नक्षत्राणि तथैव च ३३.
एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा ३३.
आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च ३३.
कालो हि बलवाँल्लोके एक एव न चापरः ३३.
आदौ कालः कालनाच्च लोकनायकनायकः ३३.