प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः
सर्वदिक्पालकांताभिः समेता शैलबालिका
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती
दुष्करस्योदवासस्य बोधयन्तीव साधुताम्
क्रीडामिव पुराभ्यस्तां तपसापि च संगता 1.3.1.12.
संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता
अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता
क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये
अधःकृताभ्रतडितो जिगीषंतीव चामरीः
सिद्धचारणगंधर्वविद्याधरविराजितम्
अष्टापदपथाकारमष्टदिक्पालपूजितम्
अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः
लसत्सुवर्णदुवर्णशालामालासमास्थितम् 1.3.1.12.
वीणावेणुमुखैस्तालैः सालापैरुपरंजितम्
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम्
निशादिवसयोरेवं दर्शयन्निव सर्वदा
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ
व्योमगंगाजलोत्संगशीतलो मरुदाववौ
कनकांकितशृंगाग्रपरिधूतवनावलिः
वसंतप्रमुखाः सर्वे सहर्षमृतवः पुरः
गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः
कुंकुमक्षोदसंमिश्रकर्पूररजसान्वितः
अथ मृदंगकमर्दलझल्लरीपटहदुंदुभितालसमन्वितैः 1.3.1.12.
सुरवधूजननृत्तनिरंतरोल्लुलिततुंबरुगायनगीतिभिः
सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया
ललितया निजया प्रिययान्वितः सुरमुनींद्रसमाजसमावृतः
अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान्
समनुलेपितहारसुमंडितावभिगतौ सिततां समलंकृतौ